ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन् ।
तेहनाकं महिमान: सचंत यत्र पूर्वे साध्याः संति देवाः ।
ॐ राजाधिराजाय प्रसह्यसाहिने
नमो वयं वैश्रवणाय कुर्महे
स मे कामान् कामकामाय मह्यं
कामेश्वरो वैश्रवणो ददातु ।
कुबेराय वैश्रवणाय महाराजाय नमः ।
ॐ स्वस्ति साम्राज्यं, भौज्यं, स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं
माहाराज्यमाधिपत्यमयं समंतपर्या
ईस्यात् सार्वभौम: सार्वायुष आंतादापरार्धात् ।
पृथिव्यै समुद्रपर्यंताया एकराळिति । तदप्येष: श्लोकोऽ भिगीतो मरुतः
परिवेष्टारो मरुत्तस्यावसन्गृहे । अविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥